सङ्गीते उत्तमां नवनिर्मितिं कुर्वाणः प्रतिभासम्पन्नः कलाकारः
गुरुवर्यः पं. बखलेमहाभागः कृष्णरावं पुत्रवत् शिष्यम् अमन्यत। तं च आग्रा, जयपुरः तथा ग्वाल्हेरः इति कुलत्रयस्य अपि सङ्गमरूपां स्वस्य विशिष्टां गरिमामयीं गायनशैलीं पाठितवान्। चत्वारि वर्षाणि यावत् प्रत्यक्षं पठन् दशवर्षाणि यावत् आभारतं गुरुवर्येण पं. बखलेमहाभागेन सह वादयन् अल्पावधौ एव मास्तर-कृष्णरावः सङ्गीतनिपुणः जातः। सः शास्त्रीयगायनस्य स्वतन्त्रकार्यक्रमान् कर्तुम् आरभत। गुरोः मार्गदर्शने स्वतन्त्रतया च सङ्गीतदिग्दर्शनम् आरब्धवान्। शास्त्रीय- बन्दिश- निर्माणं, नूतनानां रागाणां, संयुक्तरागाणां चापि निर्माणं सः कर्तुम् आरभत। नूतनाः स्वररचनाः तेन कृताः, तथा पुरातनीं स्वररचनां परिवर्त्य तदेव गीतं नूतनरूपेण प्रकाशयितुं च आरब्धम्। स्वस्य नाट्यगीतस्य स्वररचनाम् अनुसृत्य नूतनं शास्त्रीय- बन्दिश- निर्माणं, स्वरचितस्य शास्त्रीय- गीतस्य (चीज इत्यस्य) स्वररचनाम् आधृत्य नूतनस्य नाट्यगीतस्य स्वररचनां सः अकरोत्।
पूर्वं भक्तिसङ्गीतस्य गायनं वारकरी- पद्धत्या भवति स्म। मास्तर- कृष्णरावेण भक्तिसङ्गीतं शास्त्रीयसङ्गीतस्य पद्धत्या रचयित्वा एकः नवः मनोहरः विभागः उद्घाटितः। उदाहरणं दातव्यं चेत् मराठीनाट्यसृष्टेः गन्धर्वनाटक- मण्डलीनां ‘सङ्गीत- सन्त- कान्होपात्रा’ इति, तथा मराठीचित्रपटसृष्टेः प्रभात- फिल्म- कंपनी इत्यस्याः संस्थायाः ‘धर्मात्मा’ इति भवितुम् अर्हति। मास्तर- कृष्णरावेण कृतसङ्गीतं ‘सङ्गीत- सन्त- कान्होपात्रा’ इति नाटकं नाम स्वतन्त्रायाः भक्तिसङ्गीतरचनायाः प्रथमः प्रयोगः। अस्मिन् भक्तिरसपरिपूर्णे नाटके विद्यमानानि 'जोहार मायबाप जोहार', 'अवघाची संसार सुखाचा करीन', 'अगा वैकुंठीच्या राया' एतानि नाट्यपदानि अद्यापि रसिकानां प्रियाणि सन्ति। संत- एकनाथ- महाराजस्य जीवनाधारिते ‘धर्मात्मा’ चित्रपटे अभङ्गानां पदानां च विनूतनां स्वररचनां कृत्वा भक्तिसङ्गीतक्षेत्रे क्रान्तिमेव कृतवान्। तावत्पर्यन्तं भक्तिगीतानां प्रचलिताः स्वररचनाः आर्तिक्यं, प्रार्थना, वारकरी- भजनानि इव आसन्। तस्य तालः अपि प्रामुख्येन भजनी धुमाळी इति आसीत्। विनूतनानां स्वररचनानां प्रप्रथमः प्रयोगः मास्तर-कृष्णरावेण कृतः। ‘धर्मात्मा’ चित्रपटे बालगन्धर्वः महाराज- एकनाथस्य भूमिकां करोति स्म। तस्य प्रिये भीमपलास- रागे मास्तर-कृष्णरावः पदं स्वरबद्धं कृतवान्। तत्र 'भाव तोचि देव' इति अभङ्गः प्रभात-भैरव इति रागे सङ्गीतबद्धं कृतवान्। एवम् अस्य चित्रपटस्य भक्तिसङ्गीतं शास्त्रीयरागाधारितं मधुरम् उत्तमं सङ्गीतम् इति प्रख्यातम्। अग्रे सन्तवाणी अनेन एव मार्गेण प्रवाहिता।
मास्तर-कृष्णरावस्य आहत्य सङ्गीतकार्यं शास्त्रीयसङ्गीतं, नाट्यसङ्गीतं, भावसङ्गीतं, सुगमसङ्गीतं, भक्तिसङ्गीतं, चित्रपटसङ्गीतं, देशसङ्गीतम् इत्यादिषु क्षेत्रेषु विस्तृतं दृश्यते। एषु सर्वेषु क्षेत्रेषु मास्तर- कृष्णरावः शास्त्रीय- गायकः, शास्त्रीय- रचनाकारः, वाग्गेयकारः, सङ्गीतनाटके सङ्गीतदिग्दर्शकः तथा स्त्रीपात्र- गायकनटः, पुरुषपात्र- गायकनटः, चित्रपटेषु गायकः, गायकनटः, सङ्गीतदिग्दर्शकः, भक्तिगीतानां देशगीतानां च गायकः, रचनाकारः, सङ्गीतदिग्दर्शकः इति विविधाभिः भूमिकाभिः स्वस्थानं निर्मितवान्। प्रभात- फिल्म- कंपनी- इत्यस्याः संस्थायाः ‘धर्मात्मा, गोपालकृष्णः, अमरज्योती, माणूस, शेजारी, वहाँ, लाखारानी’ इत्यादिनां चित्रपटानां वैशिष्ट्यपूर्णं सङ्गीतं कृतवान्। ‘माणूस’ चित्रपटे विद्यमानं 'कशाला उद्याची बात' इति गीतं भारतीयचित्रपटसृष्टौ प्रथमं बहुभाषिकगीतं वर्तते। अनेन गीतेन लोकप्रियतायाः शिखरं दृष्टम्। ‘शेजारी’ चित्रपटस्य 'लख लख चंदेरी' इति दीपशिखानृत्यगीतं (मशालनृत्य) सर्वथा विशिष्टम् आसीत्। अस्मिन् गीते मास्तरेण ‘म्युझिक अरेंजिंग’ तन्त्रस्य प्रयोगः कृतः। अयं मराठीचित्रपटे कृतः प्रथमः एव प्रयोगः। प्रभातस्य ‘गोपालकृष्णः’ इति सङ्गीतप्रधानः चित्रपटः। एतस्य अत्यल्पस्वरैः रचितानि सर्वाणि सुमधुराणि गीतानि अत्यन्तं प्रसिद्धानि आसन्। तत्पश्चात् महाराष्ट्रे मराठीगीतानां स्पर्धाः आरब्धाः।
गन्धर्व- नाटक- मण्डळीमध्ये गायकनटः, सङ्गीतकारः, सङ्गीतशिक्षकः च इति रूपेण कार्यरतः मास्तर- कृष्णरावः अग्रेसरः कलाकारः आसीत्। १९२२ वर्षे ८ एप्रिल दिने गुरुवर्यः बखलेमहाभागः दिवङ्गतः। तत्पश्चात् तस्य पट्टशिष्येण मास्तर- कृष्णरावेण संस्थायाः अन्तपर्यन्तं बखलेमहाभागस्य कार्यम् अग्रे नीतम्। वयसा ज्येष्ठः बालगन्धर्व- महोदयः मास्तर- कृष्णरावं स्वस्य गुरुस्थाने अमन्यत। अतः सः कार्यक्रमेषु कदापि मास्तर- कृष्णरावस्य गायनानन्तरं न अगायत्। मास्तरस्य षष्ठ्यब्दिपूर्ति- कार्यक्रमे बालगन्धर्वः तस्य भाषणे अकथयत् , “मास्तर मम गुरुबन्धुः अस्ति तथैव मम गुरुः अपि। सः अस्मान् पाठितवान् अस्ति। मम सप्तनाटकेषु सः स्वरयोजनां कृतवान् अस्ति। किं वदामि? मम अभिमानविषयः अस्ति। मास्तरः स्वररचनां कुर्यात्, नारायणमहोदयः गायेत्। अहं तुं (कृष्णरावमहोदयं) एतदेव कथयामि, यत् भवान् इयतीं प्रभावयुक्तां सुन्दरीं स्वररचनां करोति, तेन भवतः पुण्यम् इदम् अहम् अनायासं प्राप्नोमि।” (एतद् भाषणं ध्वनिमुद्रितम् अस्ति।) मास्तरकृष्णरावः बखलेवर्यः इव बालगन्धर्वं सङ्गीतम् अशिक्षयत्। सः न केवलं पदस्य स्वररचनां अपाठयत् , परन्तु ‘पुनः गायतु’ इति प्रतिसादे (वन्समोअर) प्राप्ते तत् पदं विभिन्नप्रकारैः कथं प्रकाशनीयम् इति अपि शिक्षितवान्।
मास्तरकृष्णरावः शीघ्रसङ्गीतकारः, बन्दिश- रचनाकारः गायकः तु आसीत् । तस्य अपरम् एकं वैशिष्ट्यं नाम सङ्गीतप्रयोजनसमये संवादिनी अथवा अन्यस्य कस्यापि वाद्यस्य आवश्यकता तस्य न आसीत्। कस्मिन् प्रसङ्गे गीतम् आवश्यकम् अस्ति, तस्य वर्णनं चित्रपट- / नाट्यदिग्दर्शकेन कृतं चेत् तत्रैव सः स्वरयोजनं कृत्वा रचनां गीत्वा श्रावयति स्म। एतादृश्यः बहुविधाः रचनाः गीत्वा बहून् विकल्पान् तत्र योजयति स्म।
गन्धर्व- नाटक- मण्डली- संस्थायाः पिधानानन्तरं पुनः १९४२ तमे वर्षे मास्तरः नाट्यसङ्गीतं प्रति आगतः। नाट्यनिकेतन संस्थायाः ‘कुलवधू’ नाटकस्य कृते नाट्यपदस्य कालानुरूपा स्वररचना तेन कृता। तदर्थं शास्त्रीयसङ्गीतस्य भावगीतस्य च सुमधुरं मेलनं सः कृतवान्। अस्य नाटकस्य ‘बोला अमृत बोला’ इति भैरवीरागे विद्यमानं पदं अद्यापि लोकप्रियं भूत्वा मास्तरस्य मुकुटे शिरोमणिः इव प्रतिभाति। विस्मयकरम् इदं नाम - ‘क्षण आला भाग्याचा’, ‘मनरमणा मधुसूदना’, ‘बोला अमृत बोला’ इति पदत्रयस्यापि स्वररचना तेन एकस्मिन् दिने एव कृता। तथैव सर्वेषां नाट्यपदानां स्वररचनां कृत्वा एकस्मिन् सप्ताहे सर्वेषां गायक- नटानां गायनाभ्यासः अपि कारितः। अस्मिन् नाटके एकं युगल-गीतं भवतु इति मास्तरकृष्णरावस्य आग्रहः आसीत्। तदनु 'भाग्यवती मी त्रिभुवनी झाले' इति गीतस्य निर्मितिः जाता। इदं गीतं मराठीनाट्यसृष्टेः प्रथमं युगलगीतम्।
व्ही.शान्ताराममहोदयेन प्रभात-संस्था त्यक्त्वा राजकमल-कलामन्दिरस्य स्थापना कृता। १९४४ तमे वर्षे निर्मितः ‘भक्तिचा मळा’ इति राजकमल-संस्थायाः प्रथमः मराठीचित्रपटः। अस्मिन् चित्रपटे मास्तरकृष्णरावेण कर्मयोगिनः सन्त- सावता- माळी- महाभागस्य प्रमुखभूमिका उत्तमतया निरूढा। स्वस्य अभिनयः वास्तवः भवेत् इत्यर्थं सः वृषभशकटचालनं, क्षेत्रकर्षणं, कूपखननं पठितवान्। तस्य सम्यक् अभ्यासं कृत्वा सः स्वयमेव चित्रपटे एतत् सर्वं कृतवान्। अस्य चित्रपटस्य सङ्गीतं तथा स्वस्य गीतानां गायनं तेन स्वयमेव कृतम्। अस्मिन् चित्रपटे विद्यमानानि 'कांदा, मुळा, भाजी। अवघी विठाई माझी॥', 'विश्वाचे अमुचे हे वैभव सारे, आम्ही दुनियेचे राजे' तथा 'राजा पंढरीचा हरी माझा आला' एतानि भक्तिरसपूर्णानि गीतानि बहुवारं शास्त्रीयगायनकार्यक्रमे अपि मास्तरकृष्णरावः गायति स्म। मुम्बयीस्थित- अथवा पुणेस्थितायां शाकविपण्यां मास्तरकृष्णरावस्य कार्यक्रमः भवति स्म। तदा सः प्रायः ‘भक्तिचा मळा’ चित्रपटे विद्यमानेन ‘कांदा, मुळा, भाजी’ इति अभङ्गेन आरम्भं करोति स्म। तन्नाम स्वस्य कार्यक्रमं आस्वादयितुम् आगतः श्रोतृवर्गः कीदृशः अस्ति, तेषाम् अभिमतं किम्, इत्यादिविषयान् सम्यक् विचिन्त्य ततः अल्पावधौ एव मास्तरकृष्णरावः स्वस्य कार्यक्रमस्य रचनां करोति स्म। पु.ल.देशपांडेमहोदयः एकस्मिन् प्रकटकार्यक्रमे उक्तवान् - “ मास्तरकृष्णरावः शालाछात्रात् मालाकारपर्यन्तं सङ्गीतं नीतवान्।”
मास्तरकृष्णरावः अल्पेषु स्वरेषु सङ्गीतरचनां करोति स्म। अतः तस्य गीतं श्रोतुं सुलभम् अभासत, परं गातुं तु तावदेव कठिनं भवति स्म।
बखलेमहोदयेन संस्थापितायाः ‘पुणे भारत गायन समाज’ इति संस्थायाः कृते कृष्णरावमहाभागेन ‘रागमाला सङ्ग्रहः - भागः १ तः ७’ इति भारतीयसर्वकारेण प्रमाणितः सम्पूर्णः शास्त्रीय- सङ्गीत- गायन- अभ्यासक्रमः निर्मितः। तथैव ‘राष्ट्रसंगीत, संगीत मोहनमाळ’ इत्यादीनि स्वरावली- विषयकानि पुस्तकानि लिखित्वा प्रकाशितानि। तथैव संगीत स्वयंवर, संगीत कान्होपात्रा इति नाटके, भक्तीचा मळा इति चित्रपटस्य स्वरावली- पुस्तकानि विलिख्य प्रकाशितानि। एवं प्रकारेण स्वस्य गानविद्या मुक्तहस्तेन समाजे वितरिता। स्वातन्त्र्यपूर्वकालतः हिंदुस्थानी शास्त्रीयसङ्गीतस्य आभारतं प्रचारः प्रसारः अपि तेन कृतः गुरुवर्यस्य भास्करबुवा- बखलेमहोदयस्य कार्यं च समर्थतया अग्रे नीतम्।
जगन्मित्रं तथा चारित्र्यसम्पन्नः कलाकारः
मास्तरकृष्णरावः प्रकृत्या वाग्मी, आनन्दी, वाचोयुक्तिपटुः च आसीत्। तस्य प्रत्येकं कार्यक्रमे प्रसन्नम् आनन्दवर्धकम् उत्साहपूर्णं च वातावरणं भवति स्म। ‘रक्षणीयानि बहूनां मनांसि’ (राखावी बहुतांची अंतरे) इति तस्य जातस्वभावः आसीत्। सः कार्यक्रमे गायनस्य प्रस्तुतिसमये स्वसहकारिभिः सह, रसिकश्रोतृभिः च सह सहजं संवादं करोति स्म। तेन कृष्णरावः मम कृते एव गायति, इति सुखदया भावनया सर्वोपि श्रोता कार्यक्रमस्य रसास्वादनं करोति स्म। एकदा कश्चन सङ्गीतज्ञः अत्यन्तं गम्भीरतया तम् अपृच्छत् , “महोदय! भवान् अत्युत्तमं स्वरचालनं करोति भोः! एतादृशानि चलनानि कथं स्फुरन्ति भवतः?” एतत् श्रुत्वा तादृश्या एव गभीरतया महोदयः प्रत्यवदत् , मम स्वरचलनानि उत्तमानि, यतः मूलतः मम चलनम् एव अत्यन्तं सरलम् अस्ति।” अयं तु विनोदः, परन्तु मास्तरकृष्णरावः सत्यमेव निर्व्यसनी चारित्र्यसम्पन्नः च कलाकारः आसीत्। सङ्गीतकलां पूजयन् सांसारिककर्तव्यानि सुचारुतया निर्वहन् उत्तमं जीवनं सः कृतवान्। माता मथुराबायी, गुरुवर्यः भास्करबुवा- बखले- महोदयः, लोकमान्यः टिळकवर्यः, तथा तस्य आध्यात्मिकः मोक्षगुरुः इत्येतानि तस्य श्रद्धास्थानानि। तस्य माता आजीवनं महत्कष्टं कृतवती। मातुः सुखार्थं मास्तरः सततं यत्नं कृतवान्। सः सदैव गुर्वाज्ञाम् अनुसृतवान्। आदर्शेन आचरणेन स्नेहेन च अन्तं यावत् गुरोः आशीर्वादं पुनः पुनः प्राप्तवान्।
देवभक्तः देशभक्तः च कलाविद्
मास्तरकृष्णरावः देवभक्तः आसीत्। संतश्रेष्ठे भगवति ज्ञानेश्वरे तस्य अचला श्रद्धा आसीत्। श्रीज्ञानेश्वर्याः अध्यायं पठित्वा एव भोक्तव्यम् इति तस्य नियमः आन्तं यावत् तेन आचरितः। वारकरीपंथस्य अनुयायी सः तुलसीमालां कृष्णतिलकं (बुक्का) च सर्वदा अधरत्। तस्य आचारः भागवतधर्मम् अनुसृत्य वारकरीजनः इव भवति स्म। स्वजीवने सः श्रीसाईबाबा, दासगणू- महाराजः, शंकर- महाराजः, अवतार- मेहेर- बाबा, गुळवणी- महाराजः, पाचलेगावकर- महाराजः, मोक्षगुरुः नर्मदावासी प.पू. सच्चिदानंद- स्वामी इत्यादिनां सहवासं कृपाशीर्वादं च प्राप्तवान्।
यथा मास्तरकृष्णरावः देवभक्तः तथैव सः प्रखरः देशभक्तः अपि आसीत्। भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं भारतस्य राष्ट्रगीतं किं भवेत् इति प्रश्नः उद्भूतः। मास्तरकृष्णरावस्य दृढं मतम् आसीत् यत् ‘वन्दे मातरम्’ इति मातृभूमिवन्दना एव राष्ट्रगीतत्वेन योग्यम्। अनया भावनया तस्य गीतस्य स्वरयोजनं कृत्वा सः प्रधानमन्त्रिणं पं. नेहरुमहोदयेन मिलितवान्। राष्ट्रगीतं आबालवृद्धानां कृते गातुं सरलं भवेत् इति विचारेण झिंजोटीरागस्य सरलां सुमधुरां च स्वररचनां कृतवान् सः।
वन्दे मातरम्
छायाचित्रम् - लोकमान्यः टिळकः
‘वन्दे मातरम्’ इति गीतं स्वतन्त्रभारतस्य राष्ट्रगीतं भवतु इत्यर्थं स्वातन्त्र्यपूर्वकालतः एव बहूनि वर्षाणि यावत् मास्तरकृष्णरावेण निरन्तरं यत्नः कृतः। तदर्थं तस्य प्रेरणादायकं श्रद्धास्थानम् आसीत् लोकमान्यः टिळकः।
छायाचित्रम् - सेनापतिः बापटः
१९३७ तमे वर्षे पुणेमध्ये ‘टिळक-स्मारक-मन्दिरम् इत्यत्र कामा-महोदयायाः आद्यः ध्वजः आनीतः तथा भारते प्रथमः ‘वन्दे मातरम् दिवसः’ आचरितः। तदा मास्तरकृष्णरावेण स्वकृतं सङ्गीतम् अनुसृत्य सम्पूर्णस्य ‘वन्दे मातरम्’ गीतस्य गायनं कृतम्। तस्मिन् समये मान्याः सेनापतिः बापटः तथा स्वातन्त्र्यवीर- सावरकर-प्रभृतयः उपस्थिताः आसन्।
छायाचित्रम् - स्वातन्त्र्यवीरः सावरकरः
मास्तरकृष्णरावस्य ‘वन्दे मातरम्’ विषयकस्य सङ्घर्षस्य विषये सातत्येन जिज्ञासुः स्वातन्त्र्यवीरः सावरकरः।
स्वातन्त्र्योत्तरकाले मास्तरकृष्णरावः संसदि घटनासमिति- सदस्यानां पुरतः बहुवारं अस्य गीतस्य प्रत्यक्षगायनं कृतवान्। अन्ततः १९५० तमे वर्षे राष्ट्रीयगीतत्वेन स्वीकृतस्य अस्य गीतस्य राष्ट्रगीतमिव बहुमानः जातः। तदर्थं मास्तरकृष्णरावेण अविरतैः परिश्रमैः स्वकोशात् व्ययः अपि कृतः। आङ्ग्लशासनकाले आकाशवाण्याम् एतद् गीतं गातुं सः अनुमतिं न प्राप्तवान्। अतः सः आकाशवाण्याः बहिष्कारम् अकरोत्। १९४७ तमे वर्षे भारतसर्वकारेण अस्य गीतस्य प्रतिबन्धाः निष्कासिताः। तदा सरदार वल्लभभायी पटेल- महोदयस्य विशेषप्रार्थनाम् अनुलक्ष्य नववर्षारम्भदिने आकाशवाण्याम् एतदेव गीतं महोदयः गीतवान्, स्वस्य आकाशवाण्यां गायनस्य पुनरारम्भं कृतवान् च। तदा आकाशवाणी इति कलाविदां रसिकान् प्राप्तुं अर्थार्जनं कर्तुं च प्रमुखं माध्यमम् आसीत्। परं पूर्वं मास्तरः देशाभिमानं श्रेष्ठम् अमन्यत। स्वस्य कलां राष्ट्रहिताय अर्पयत्सु कलायाः कृते राष्ट्राभिमानं च जपत्सु दुर्लभेषु कलावित्सु कृष्णरावस्य नाम सर्वदा अग्रेसरं भवेत्। देशभक्तस्य तस्य तेजस्विनः कार्यस्य गौरवं कृतवत्सु स्वातंत्र्यवीर- सावरकरः, सरोजिनी नायडू, वीरः नरिमनः अन्ये च सर्वपक्षीयाः नेतारः आसन्। पु.ल.देशपांडेवर्यः प्रकटकार्यक्रमे एतद् अकथयत् , “ ‘वन्दे मातरम्’ गीतार्थं कृतभूरिपरिश्रमं मास्तरकृष्णरावं दृष्ट्वा तस्य कृते एव ‘वन्दे मास्तरम्’ इति वक्तुकामः अस्मि। ”
छायाचित्रम् - सरदार-वल्लभभायी-पटेलवर्यः
लोहपुरुषः सरदार-वल्लभभायी-पटेलवर्यः स्वयम् आकाशवाणी-केन्द्रे दूरवाणीं कृत्वा सूचितवान् यत् मास्तर-कृष्णरावस्य कृते वन्दे मातरम् इति गीतम् आकाशवाणी-कार्यक्रमे गातुम् अनुमतिं कुर्वन्तु इति।